Published Fast: - If it's accepted, We aim to get your article published online in 48 hours.

Home / Articles

No Article found
मनुस्मृतौ मानवीयमूल्यानि
Author Name

Dr. Sk. Nagamastanvali Guest faculty Dept of puranetihasa National sanskrit university Tirupati

Abstract

श्रुतिः स्मृतिः सदाचारः इत्येते धर्मस्य प्रमाणानि। स्मृतिः नाम धर्मशास्त्रम्। पुरतनैः आचार्यैः पुराणान्यपि स्मृति शब्देन व्यवहृतानि। शङ्करभगवत्पादैः “इति स्मृतेः” इत्यादि वचनैः पुराणवचनान्यपि उदह्रीयन्ते। इदानीं काले मनुस्मृतिः सर्वथा न अनुसरणीया इति केचन वदन्ति। अपि च तत्र कुलादिविवक्षा वर्तते सर्वे आचाराः न पालनीयाः इत्यपि अनुष्ठानस्य अयोग्यत्वं तस्याः वदन्ति। वर्णाश्रमधर्मविपर्ययेन यद्यपि नानुष्ठेयत्वं तथापि साधारणधर्माः लौकिकाः अनुष्ठेयाः एव। वर्णाश्रमव्यवस्थापि वृत्तिकल्पनाय कृत्वा न परपीडनाय कालान्तरे दुर्व्याख्यातृभिः वर्णधर्माणां अन्यथा व्याख्या कृता। आश्रमधर्माश्च जीवितसाफल्यसंपादनाय विहिताः तदापि यावज्जीवं गृहस्थाश्रमे स्थितिः अपि स्मृतिषु अङ्गीकृता। ब्राह्मणाय इदं द्रव्यं इयत् देवयं इति सर्वासु स्मृतिषु दृश्यते एव। वृत्तिकर्शितानां कार्यान्तरं कर्तुमशक्तानां विषये दानं धर्मशास्त्रेष्वपि प्रशस्तम्। एषास्य वर्णिकीवृत्तिः इति नियमेन नियतया वृत्त्या जीवनं यापयितुं शक्यते स्म। इदानीं वृत्तिसाङ्कर्येण सर्वे आत्मनमपि पोषयितुं अशक्ताः अभूवन्। अतः वर्णधर्माः न निन्द्याः आश्रमधर्मैः मनुष्यः स्वाश्रमात् विरुद्धं चिन्तयितुं न शक्नोति स्म। अतः दुराचारः दुर्वुद्धिश्च न भवति स्म। पुराणानुसारेण स्मृतीनां मतेन यस्य यद् विहितं तदेव कर्तव्यमासीत्।



Published On :
2022-08-31

Article Download :
Publish your academic thesis as a book with ISBN Contact – connectirj@gmail.com
Visiters Count :