Published Fast: - If it's accepted, We aim to get your article published online in 48 hours.

Home / Articles

No Article found
याज्ञवल्क्यस्मृतौ प्रतिपादित विवाहानां भेदाः
Author Name

Dr chaitanya kumar bandi Guest faculty, Dept of Dharmasastra National sanskrit university, Tirupati

Abstract

याज्ञवल्क्यशिष्यः कैश्चित् प्रश्नोतररूपं याज्ञवल्क्यमुनिप्रणीत धर्मशास्त्र संक्षिप्य कथयामास, यथा मनुप्रणीतं भृगुः इति ।[i]

याज्ञवल्क्यस्मृतौ दशाधिकं श्लोकसहस्रं (१०१०) विद्यते। व्याख्याभेदमनुसृत्य पञ्चषाणां श्लोकानां न्यूनाधिक्यमपि भवत्येव मनुस्मृतौ सप्तशताधिकद्विसहस्रश्लोकेषु (२७००) वर्णितान् विषयान् संक्षिप्य याज्ञवल्क्यो निरूपितवान्। रामचन्द्रुडुमहोदयैरेवमुक्तम्- मनुस्मृतेरपि याज्ञवल्क्यस्मृतौ विषयप्रतिपादनं क्रमबद्धं पुनरुक्तिरहितं च इति । मनुस्मृतौ काव्यशैली तत्र तत्र दृश्यते। याज्ञवल्क्यस्मृतौ मनुस्मृतिश्लोकाः वाक्यानि पदानि च मनुस्मृतेर्गृहीतानि ततो याज्ञवल्क्यस्मृतिर्मनुस्मृत्यनुसारिणीति वक्तुं शक्यते । याज्ञवल्क्यस्मृतौ त्रयः अध्यायाः वर्तन्ते। १) आचाराध्यायः, २) व्यवहाराध्यायः, ३) प्रायश्चित्ताध्यायः इति अध्यायेष्वपि विषयान्अनुसृत्य प्रकरणविभागो विद्यते ।

 

[i] याज्ञवल्क्यस्मृतिः – पीठिका – पृ - ११



Published On :
2022-11-30

Article Download :
Publish your academic thesis as a book with ISBN Contact – connectirj@gmail.com
Visiters Count :